|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.242. अध्यायः 242
Mahabharata - Vana Parva - Chapter Topics
गन्धर्वैःसह कौरवाणामायोधनम् ॥ 1 ॥ चित्रसेनादिभिर्विरथीकृतेन कर्णेन रणाङ्कणात्पलायनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-242-0x(2596)(25396)
ततस्ते सहिताः सर्वे दुर्याधनमुपागमन्।
अब्रुवंश्च महाराज यदूचुः कौरवं प्रति ॥ 3-242-1(25397)
गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान्।
अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत ॥ 3-242-2(25398)
शासतैनानधर्मज्ञान्मम विप्रियकारिणः।
यदि प्रक्रीडते सर्वैर्देवैः सह शचीपतिः।
`वयमत्र यथा प्रीता क्रीडिष्यामो निरङ्कुशं' ॥ 3-242-3(25399)
दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाः।
सर्व एवाभिसन्नद्धा योधाश्चापि सहस्रशः ॥ 3-242-4(25400)
ततः प्रमथ्य सर्वांस्तांस्तद्वनं विविशुर्बलात्।
सिंहनादेन महता पूरयन्तो दिशो दश ॥ 3-242-5(25401)
ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः।
`साम्नैव रतत्र विक्रान्ता मा साहसमिति प्रभो' ॥ 3-242-6(25402)
ते वार्यमाणा गन्धर्वैः साम्नैव वसुधायिप।
ताननादृत्य गन्धर्वांस्तद्वनं विविशुर्महत् ॥ 3-242-7(25403)
यदि वाता न तिष्ठन्ति धार्तराष्ट्राः सराजकाः।
ततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन् ॥ 3-242-8(25404)
गन्धर्वराजस्तान्सर्वानब्रवीत्कौरवान्प्रति।
अनार्याञ्शासतेत्येतांश्चित्रसेनोऽत्यमर्षणः ॥ 3-242-9(25405)
अनुज्ञाताश्च गन्धर्वाश्चित्रसेनेन भारत।
प्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन् ॥ 3-242-10(25406)
तान्दृष्ट्वाऽऽपततः शीघ्रान्गन्धर्वानुद्यतायुधान्।
प्राद्रवंस्ते दिशः सर्वे धार्तराष्ट्रस्य पश्यतः ॥ 3-242-11(25407)
तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान्।
राधेयस्तु तदा वीरो नासीत्तत्रपराङ्मुखः ॥ 3-242-12(25408)
आपतन्तीं तु संप्रेक्ष्य गन्धर्वाणां महाचमूम्।
महता शरवर्षेण राधेयः प्रत्यवारयत् ॥ 3-242-13(25409)
क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैस्तथाऽऽयसैः।
गन्धर्वाञ्शतशोऽभिघ्नँल्लघुत्वात्सूतनन्दनः ॥ 3-242-14(25410)
पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः।
क्षणएन व्यधमत्सर्वां चित्रसेनस्य वाहिनीम् ॥ 3-242-15(25411)
ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता।
भूय एवाभ्यवर्तन्त शततशोऽथ सहस्रशः ॥ 3-242-16(25412)
गन्धर्वभूता पृथिवी क्षणेन समपद्यत।
आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः ॥ 3-242-17(25413)
अथ दुर्योधनो राजा शकुनिश्चापि सौबलः।
दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः।
न्यहनंस्तत्तदा सैन्यं रथैर्गरुडनिःखनैः ॥ 3-242-18(25414)
सैन्यमायोधितं दृष्ट्वाकर्णो राजन्न मृष्यत ॥ 3-242-19(25415)
महता रथसङ्घेन रथचारेण चाप्युत।
वैकर्तनं परीप्सन्तो गन्धर्वाः प्रत्यवारयन्।
ततः संन्यपतन्सर्वे गन्धर्वाः कौरवं प्रति ॥ 3-242-20(25416)
तदा सुतुमुलं युद्धमभवद्रोमहर्षणम्।
ततस्ते मृदवोऽभूवनगन्धर्वाः शरपीडिताः ॥ 3-242-21(25417)
उच्चुक्रुशुश्च कौरव्यागन्धर्वान्प्रेक्ष्य पीडितान् ॥ 3-242-22(25418)
गन्धर्वांस्त्रासितान्दृष्ट्वा चित्रसेनो ह्यमर्षणः।
उत्पपातासनात्क्रुद्धो वधे तेषां समाहितः ॥ 3-242-23(25419)
ततो मायास्त्रमास्थाय युयुधे चित्रमार्गवित्।
`वियत्संछादयामास न ववौ तत्र मारुतः' ॥ 3-242-24(25420)
हस्त्यारोहा हताः पेतुर्हस्तिभिः सह भारत।
हयारोहाः सह हयै रथैश्च रथिनस्तदा ॥ 3-242-25(25421)
पत्तयश्च तथापेतुर्विशस्ताः शरवृष्टिभिः'।
तयाऽमुह्यन्त कौरव्याश्चित्रसेनस्य मायया ॥ 3-242-26(25422)
एकैको हि तदा योधो धार्तारष्ट्रस्य भारत।
पर्यवार्यत गन्धर्वैर्दशभिर्दशभिर्युधि ॥ 3-242-27(25423)
ततः संपीड्यमानास्ते बलेन महता तदा।
प्राद्रवन्त रणे भीता यत्रराजा युधिष्ठिरः ॥ 3-242-28(25424)
भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः।
कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः ॥ 3-242-29(25425)
दुर्योधनश्च तेजस्वी शकुनिश्चापि सौबलः।
गन्धर्वान्योधयामासुः समरे भृशविक्षताः ॥ 3-242-30(25426)
सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः।
जिघांसमानाः संरब्धाः कर्णमभ्यद्रवत्रणे ॥ 3-242-31(25427)
असिभिः पट्टसैः शूलैर्गदाभिश्च महाबलाः।
सूतपुत्रं जिघांसन्तः समन्तात्पर्यवारयन् ॥ 3-242-32(25428)
अन्येऽस्य युगमच्छिन्दन्ध्वजमन्ये न्यपातयन्।
ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन् ॥ 3-242-33(25429)
अन्ये च्छत्रं वरूथं च बन्धुरं च तथा परे।
`अन्ये संचूर्णयामासुश्छत्रे चाक्षौ तथा परे ॥' 3-242-34(25430)
गन्धर्वा बहुसाहस्रास्तिलशो व्यधमन्रथम् ॥
ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत्। 3-242-35(25431)
`अंसावलम्बितधनुर्धावमानो महाबलः'।
विकर्णरथमास्थाय मोक्षायाश्वानचोदयत् ॥ 3-242-36(25432)
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि द्विचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 242 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-242-19 भूयश्च योधयामासुः कृत्वा कर्णमथाग्रतः। महता इति झ. पाठः। न मृष्यत नामृष्यत। अडभाव आर्षः ॥ 3-242-34 वरूथं रथगुप्तिम्। बन्धुरं रथवन्धनानि ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|